logo

Prashnottara Ratnamalika – 09 by Prof. Ramasubramanian

#PrashnottaraRatnamalika
॥ प्रश्नोत्तररत्नमालिका ॥

Verse 17
(45) कण्ठगतैरप्यसुभिः कस्य ह्यात्मा न शक्यते जेतुम् ।
मूर्खस्य शङ्कितस्य च विषादिनो वा कृतघ्नस्य ॥ १७ ॥

Verse 18
(46) कः साधुः सद्वृत्तः (47) कमधममाचक्षते तु असद्वृत्तम् ।
(48) केन जितं जगदेतत् सत्यतितिक्षावता पुंसा ॥ १८ ॥

Verse 19
(49) कस्मै नमांसि देवाः कुर्वन्ति दयाप्रधानाय ।
(50) कस्मादुद्वेगः स्यात् संसारारण्यतः सुधियः ॥ १९ ॥

Note: numbers in the brackets denote the question number in the composition.

Other Playlists from this Category