logo

Prashnottara Ratnamalika – 10 by Prof. Ramasubramanian

#PrashnottaraRatnamalika
॥ प्रश्नोत्तररत्नमालिका ॥

Verse 20
(51) कस्य वशे प्राणिगणः सत्यप्रियभाषिणो विनीतस्य ।
(52) क्व स्थातव्यं न्याय्ये पथि दृष्टादृष्टलाभाढ्ये ॥ २० ॥

Verse 21
(53) कोऽन्धो योऽकार्यरतः (54) को बधिरो यो हितानि न शृणोति ।
(55) को मूको यः काले प्रियाणि वक्तुं न जानाति ॥ २१ ॥

Verse 22
(56) किं दानम् अनाकाङ्क्षं (57) किं मित्रं यो निवारयति पापात् ।
(58) कोऽलङ्कारः शीलं (59) किं वाचां मण्डनं सत्यं ॥ २२ ॥

Note: numbers in the brackets denote the question number in the composition.

Other Playlists from this Category