logo

Satasloki – 09 by Prof. Ramasubramanian

#Satasloki
Lecture series on Bhagavatpāda Śaṅkarācārya’s Śataślokī by Prof. K. Ramasubramanian
॥ शतश्लोकी ॥ Verses 12 & 13

आत्माम्भोधेस्तरङ्गोऽस्म्यहमिति गमने भावयन्नासनस्थः
संवित्सूत्रानुविद्धो मणिरहमिति वास्मीन्द्रियार्थप्रतीतौ ।
दृष्टोऽस्म्यात्मावलोकात् इति शयनविधौ मग्न आनन्दसिन्धौ
अन्तर्निष्ठो मुमुक्षुः स खलु तनुभृतां यो नयत्येवमायुः ॥ १२ ॥

वैराजव्यष्टिरूपं जगदखिलमिदं नामरूपात्मकं स्यात्
अन्तःस्थप्राणमुख्यात् प्रचलति च पुनर्वेत्ति सर्वान् पदार्थान् ।
नायं कर्ता न भोक्ता सवितृवदिति यो ज्ञानविज्ञानपूर्णः
साक्षादित्थं विजानन् व्यवहरति परात्मानुसन्धानपूर्वम् ॥ १३ ॥

Other Playlists from this Category