logo

Satasloki – 10 by Prof. Ramasubramanian

#Satasloki
Lecture series on Bhagavatpāda Śaṅkarācārya’s Śataślokī by Prof. K. Ramasubramanian
॥ शतश्लोकी ॥ Verses 14 & 15

नैर्वेद्यं ज्ञानगर्भं द्विविधमभिहितं तत्र वैराग्यमाद्यं
प्रायो दुःखावलोकात् भवति गृहसुहृत्पुत्रवित्तैषणादेः ।
अन्यज्ज्ञानोपदेशात् यदुदितविषये वान्तवद्धेयता स्यात्
प्रव्रज्यापि द्विधा स्यात् नियमितमनसां देहतो गेहतश्च ॥ १४ ॥

यः कश्चित् सौख्यहेतोः त्रिजगति यतते नैव दुःखस्य हेतोः
देहेऽहन्ता तदुत्था स्वविषयममता चेति दुःखास्पदे द्वे ।
जानन् रोगाभिघाताद्यनुभवति यतोऽनित्यदेहात्मबुद्धिः
भार्यापुत्रार्थनाशे विपदमथ परामेति नारातिनाशे ॥ १५ ॥

Other Playlists from this Category