logo

Satasloki – 11 by Prof. Ramasubramanian

#Satasloki
Lecture series on Bhagavatpāda Śaṅkarācārya’s Śataślokī by Prof. K. Ramasubramanian
॥ शतश्लोकी ॥ Verses 16 & 17

तिष्ठन् गेहे गृहेशोऽप्यतिथिरिव निजं धाम गन्तुं चिकीर्षुः
गेहस्थं दुःखसौख्यं न भजति सहसा निर्ममत्वाभिमानः ।
आयात्रायास्यतीदं जलदपटलवत् यातृ यास्यत्यवश्यं
देहाद्यं सर्वमेव प्रविदितविषयो यच्च तिष्ठत्ययत्नः ॥ १६ ॥

शक्त्या निर्मोकतः स्वात् बहिरहिरिव यः प्रव्रजन् स्वीयगेहात्
छायां मार्गद्रुमोत्थां पथिक इव मनाक् संश्रयेद्देहसंस्थाम् ।
क्षुत्पर्याप्तं तरुभ्यः पतितफलमयं प्रार्थयेद्भैक्षमन्नं
स्वात्मारामं प्रवेष्टुं स खलु सुखमयं प्रव्रजेद्देहतोऽपि ॥ १७ ॥

Other Playlists from this Category