logo

Satasloki – 56 by Prof Ramasubramanian

#Satasloki
Lecture series on Bhagavatpāda Śaṅkarācārya’s Śataślokī by Prof. K. Ramasubramanian
॥ शतश्लोकी ॥ Verses 67 & 68

जाग्रत्यामन्तरात्मा विषयसुखकृतेऽनेकयत्नान् विधाय
श्राम्यत्सर्वेन्द्रियौघोऽधिगतमपि सुखं विस्मरन्याति निद्राम् ।
विश्रामाय स्वरूपे त्वतितरसुलभं तेन चातीन्द्रियं हि
सौख्यं सर्वोत्तमं स्यात् परिणतिविरसात् इन्द्रियोत्थात्सुखाच्च ॥ ६७ ॥

पक्षावभ्यस्य पक्षी जनयति मरुतं तेन यात्युच्चदेशं
लब्ध्वा वायुं महान्तं श्रममपनयति स्वीयपक्षौ प्रसार्य ।
दुःसङ्कल्पैर्विकल्पैः विषयमनु कदर्थीकृतं चित्तमेतत्
खिन्नं विश्रामहेतोः स्वपिति चिरमहो हस्तपादान् प्रसार्य ॥ ६८ ॥

Other Playlists from this Category