logo

Satasloki – 59 by Prof Ramasubramanian

#Satasloki
Lecture series on Bhagavatpāda Śaṅkarācārya’s Śataślokī by Prof. K. Ramasubramanian
॥ शतश्लोकी ॥ Verses 73 & 74
आत्माकम्पः सुखात्मा स्फुरति तदपरा त्वन्यथैव स्फुरन्ती
स्थैर्यं वा चञ्चलत्वं मनसि परिणतिं याति तत्रत्यमस्मिन् ।
चाञ्चल्यं दुःखहेतुः मनस इदमहो यावदिष्टार्थलब्धिः
तस्यां यावत्स्थिरत्वं मनसि विषयजं स्यात्सुखं तावदेव ॥ ७३ ॥

यद्वत् सौख्यं रतान्ते निमिषमिह मनस्येकताने रसेन
स्थैर्यं यावत् सुषुप्तौ सुखमनतिशयं तावदेवाथ मुक्तौ ।
नित्यानन्दः प्रशान्ते हृदि तदिह सुखस्थैर्ययोः साहचर्यं
नित्यानन्दस्य मात्रा विषयसुखमिदं युज्यते तेन वक्तुम् ॥ ७४ ॥

Other Playlists from this Category