logo

Satasloki – 63 by Prof. Ramasubramanian

#Satasloki #Vedanta #Advaita #Hinduism #Oneness #Nonduality #Spirituality
Lecture series on Bhagavatpāda Śaṅkarācārya’s Śataślokī by Prof. K. Ramasubramanian
॥ शतश्लोकी ॥ Verse 78 – Revision and relevant stanzas from Bṛhadāraṇyaka Upaniṣad

सन्धौ जाग्रत्सुषुप्त्योः अनुभवविदिता स्वाप्न्यवस्था द्वितीया
तत्रात्मज्योतिरास्ते पुरुष इह समाकृष्य सर्वेन्द्रियाणि ।
संवेष्य स्थूलदेहं समुचितशयने स्वीयभासान्तरात्मा
पश्यन् संस्काररूपान् अभिमतविषयान् याति कुत्रापि तद्वत् ॥ ७८ ॥

— बृहदारण्यकोपनिषद्भाष्यम् —

स वा अयं पुरुषो जायमानः शरीरमभिसम्पद्यमानः पाप्मभिः संसृज्यते स
उत्क्रामन्म्रियमाणः पाप्मनो विजहाति ॥ 4.3.8 ॥

तस्य वा एतस्य पुरुषस्य द्वे एव स्थाने भवत इदं च परलोकस्थानं च सन्ध्यं
तृतीयं स्वप्नस्थानं तस्मिन्सन्ध्ये स्थाने तिष्ठन्नेते उभे स्थाने
पश्यतीदं च परलोकस्थानं च । अथ यथाक्रमोऽयं परलोकस्थाने भवति
तमाक्रममाक्रम्योभयान्पाप्मन आनन्दांश्च पश्यति स यत्र प्रस्वपित्यस्य
लोकस्य सर्वावतो मात्रामपादाय स्वयं विहत्य स्वयं निर्माय स्वेन भासा
स्वेन ज्योतिषा प्रस्वपित्यत्रायं पुरुषः स्वयं ज्योतिर्भवति ॥ 4.3.9 ॥

Other Playlists from this Category