logo

Satasloki – 78 by Prof. Ramasubramanian

#Satasloki #Vedanta #Advaita #Hinduism #Oneness #Nonduality #Spirituality
Lecture series on Bhagavatpāda Śaṅkarācārya’s Śataślokī by Prof. K. Ramasubramanian
॥ शतश्लोकी ॥ Verses 93 & 94
दृश्यं यद्रूपमेतत् भवति च विशदं नीलपीताद्यनेकं
सर्वस्यैतस्य दृग्वै स्फुरदनुभवतः लोचनं चैकरूपम् ।
तद्दृश्यं मानसं दृक् परिणतविषयाकारधीवृत्तयोऽपि
दृश्या दृग्रूप एव प्रभुरिह स तथा दृश्यते नैव साक्षी ॥ ९३ ॥

रज्ज्वज्ञानाद्भुजङ्गः तदुपरि सहसा भाति मन्दान्धकारे
स्वात्माज्ञानात्तथासौ भृशमसुखमभूत् आत्मनो जीवभावः ।
आप्तोक्त्याऽहिभ्रमान्ते स च खलु विदिता रज्जुरेका तथाहं
कूटस्थो नैव जीवः निजगुरुवचसा साक्षिभूतः शिवोऽहम् ॥ ९४ ॥

Other Playlists from this Category